५ सहस्रकिलो तरबूजेन अलङ्कृता हनुमान् वाटिका
५ सहस्रकिलो तरबूजेन अलङ्कृता हनुमान् वाटिका
तरबूज-उद्याने उपविष्टस्य हनुमानस्य इदं चित्रं मध्यप्रदेशस्य इन्दौर-नगरस्य वीर-अलिजा-मन्दिरस्य अस्ति । हनुमानजयन्त्याः अवसरे सम्पूर्णं मन्दिरम् एवं अलङ्कृतम् आसीत् । एतत् उद्यानं ५ सहस्रकिलो तरबूजेन निर्मितम् अस्ति । अस्य वीर-अलिजा हनुमान-मन्दिरस्य दर्शनार्थं, अलङ्कार-दर्शनार्थं च सहस्राणि भक्ताः आगताः । मन्दिरं ११ सहस्रदीपैः अपि अलङ्कृतम् आसीत् । अस्मिन् त्रिदिवसीयमहोत्सवे, अप्रैल-मासस्य ६ दिनाङ्के हनुमानजयन्तीयां ११ प्रकारेण फलरसेन सह महाभिषेकस्य अपि प्रदर्शनं भविष्यति।
Sort: Trending
[-]
successgr.with (75) 3 years ago